श्री कालिका हृदयम् | Shri Kalika Hridayam
Shri Kalika Hridayam: काली रहस्य अंतर्गत महाकौतूहल दक्षिणाकाली हृदय स्तोत्रम् के पाठ से भयंकर व असाध्य रोग और शत्रु नष्ट हो जाते हैं। महाकाली के भक्तजन इस स्तोत्र के नियमित पाठ से माँ को प्रसन्न कर सकते हैं, और अपना मनोरथ सिद्ध कर सकते हैं।
श्री कालिका हृदयम्
कालीरहस्ये महाकौतूहल दक्षिणाकाली हृदय स्तोत्रम्श्री
गणेशाय नमः
श्री उमामहेश्वराभ्यां नमः
अथ श्री काली हृदय प्रारम्भः
श्री महाकाल उवाच
महाकौतूहलस्तोत्रं हृदयाख्यं महोत्तमम् ।
शृणु प्रिये महागोप्यं दक्षिणायाः सुगोपितम् ॥ १॥
अवाच्यमपि वक्ष्यामि तव प्रीत्या प्रकाशितम् ।
अन्येभ्यः कुरु गोप्यं च सत्यं सत्यं च शैलजे ॥ २॥
श्रीदेव्युवाच
कस्मिन् युगे समुत्पन्नं केन स्तोत्रं कृतं पुरा ।
तत्सर्वं कथ्यतां शम्भो दयानिधे महेश्वर ॥ ३॥
श्रीमहाकाल उवाच
पुरा प्रजापतेः शीर्षच्छेदनं कृतवानहम् ।
ब्रह्महत्याकृतैः पापैर्भैरवत्वं ममागतम् ॥ ४॥
ब्रह्महत्याविनाशाय कृतं स्तोत्रं मया प्रिये ।
कृत्याविनाशकं स्तोत्रं ब्रह्महत्यापहारकम् ॥ ५॥
ॐ अस्य श्रीदक्षिणकाल्या हृदयस्तोत्रमन्त्रस्य श्रीमहाकाल ऋषिः ।
उष्णिक्छन्दः । श्रीदक्षिणकालिका देवता ।
क्रीं बीजं । ह्रीं शक्तिः । नमः कीलकं ।
सर्वत्र सर्वदा जपे विनियोगः ॥
अथ हृदयादिन्यासः
ॐ क्रां हृदयाय नमः ।ॐ क्रीं शिरसे स्वाहा ।
ॐ क्रूं शिखायै वषट् ।
ॐ क्रैं कवचाय हुं ।
ॐ क्रौं नेत्रत्रयाय वौषट् ।
ॐ क्रः अस्त्राय फट् ॥
इति हृदयादिन्यासः ॥
अथ ध्यानम्
ॐ ध्यायेत्कालीं महामायां त्रिनेत्रां बहुरूपिणीम् ।
चतुर्भुजां ललजिह्वां पूर्णचन्द्रनिभाननाम् ॥ १॥
नीलोत्पलदलप्रख्यां शत्रुसङ्घविदारिणीम् ।
नरमुण्डं तथा खड्गं कमलं वरदं तथा ॥ २॥
बिभ्राणां रक्तवदनां दंष्ट्रालीं घोररूपिणीम् ।
अट्टाट्टहासनिरतां सर्वदा च दिगम्बराम् ॥ ३॥
शवासनस्थितां देवीं मुण्डमालाविभूषिताम् ।
इति ध्यात्वा महादेवीं ततस्तु हृदयं पठेत् ॥ ४॥
ॐ कालिका घोररूपाढया सर्वकामफलप्रदा ।
सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे ॥ ५॥
ह्रींह्रींस्वरूपिणी श्रेष्ठा त्रिषु लोकेषु दुर्लभा ।
तव स्नेहान्मया ख्यातं न देयं यस्य कस्यचित् ॥ ६॥
अथ ध्यानं प्रवक्ष्यामि निशामय परात्मिके ।
यस्य विज्ञानमात्रेण जीवन्मुक्तो भविष्यति ॥ ७॥
नागयज्ञोपवीताञ्च चन्द्रार्द्धकृतशेखराम् ।
जटाजूटाञ्च सञ्चिन्त्य महाकालसमीपगाम् ॥ ८॥
एवं न्यासादयः सर्वे ये प्रकुर्वन्ति मानवाः ।
प्राप्नुवन्ति च ते मोक्षं सत्यं सत्यं वरानने ॥ ९॥
यन्त्रं शृणु परं देव्याः सर्वार्थसिद्धिदायकम् ।
गोप्यं गोप्यतरं गोप्यं गोप्यं गोप्यतरं महत् ॥ १०॥
त्रिकोणं पञ्चकं चाष्टकमलं भूपुरान्वितम् ।
मुण्डपङ्क्तिं च ज्वालां च कालीयन्त्रं सुसिद्धिदम् ॥ ११॥
मन्त्रं तु पूर्वकथितं धारयस्व सदा प्रिये ।
देव्या दक्षिणकाल्यास्तु नाममालां निशामय ॥ १२॥
काली दक्षिणकाली च कृष्णरूपा परात्मिका ।
मुण्डमाला विशालाक्षी सृष्टिसंहारकारिका ॥ १३ ॥
स्थितिरूपा महामाया योगनिद्रा भगात्मिका ।
भगसर्पिःपानरता भगोद्योता भगाङ्गजा ॥ १४ ॥
आद्या सदा नवा घोरा महातेजाः करालिका ।
प्रेतवाहा सिद्धिलक्ष्मीरनिरुद्धा सरस्वती ॥ १५॥
एतानि नाममाल्यानि ये पठन्ति दिने दिने ।
तेषां दासस्य दासोऽहं सत्यं सत्यं महेश्वरि ॥ १६॥
ॐ कालीं कालहरां देवी कङ्कालबीजरूपिणीम् ।
कालरूपां कलातीतां कालिकां दक्षिणां भजे ॥ १७॥
कुण्डगोलप्रियां देवीं खयम्भूकुसुमे रताम् ।
रतिप्रियां महारौद्रीं कालिकां प्रणमाम्यहम् ॥ १८॥
दूतीप्रियां महादूतीं दूतीयोगेश्वरीं पराम् ।
दूतोयोगोद्भवरतां दूतीरूपां नमाम्यहम् ॥ १९॥
क्रींमन्त्रेण जलं जप्त्वा सप्तधा सेचनेन तु ।
सर्वे रोगा विनश्यन्ति नात्र कार्या विचारणा ॥ २०॥
क्रींस्वाहान्तैर्महामन्त्रैश्चन्दनं साधयेत्ततः ।
तिलकं क्रियते प्राज्ञैर्लोको वश्यो भवेत्सदा ॥ २१॥
क्रीं हूं ह्रीं मन्त्रजप्तैश्च ह्यक्षतैः सप्तभिः प्रिये ।
महाभयविनाशश्च जायते नात्र संशयः ॥ २२॥
क्रीं ह्रीं ह्रूं स्वाहा मन्त्रेण श्मशानाग्निं च मन्त्रयेत् ।
शत्रोर्गृहे प्रतिक्षिप्त्वा शत्रोर्मृत्युर्भविष्यति ॥ २३॥
ह्रूं ह्रीं क्रीं चैव उच्चाटे पुष्पं संशोध्य सप्तधा ।
रिपूणां चैव चोच्चाटं नयत्येव न संशयः ॥ २४॥
आकर्षणे च क्रीं क्रीं क्रीं जप्त्वाऽक्षतान् प्रतिक्षिपेत् ।
सहस्रयोजनस्था च शीघ्रमागच्छति प्रिये ॥ २५॥
क्रीं क्रीं क्रीं ह्रूं ह्रूं ह्रीं ह्रीं च कज्जलं शोधितं तथा ।
तिलकेन जगन्मोहः सप्तधा मन्त्रमाचरेत् ॥ २६॥
हृदयं परमेशानि सर्वपापहरं परम् ।
अश्वमेधादियज्ञानां कोटिकोटिगुणोत्तरम् ॥ २७॥
कन्यादानादिदानानां कोटिकोटिगुणं फलम् ।
दूतीयागादियागानां कोटिकोटिफलं स्मृतम् ॥ २८॥
गङ्गादिसर्वतीर्थानां फलं कोटिगुणं स्मृतम् ।
एकधा पाठमात्रेण सत्यं सत्यं मयोदितम् ॥ २९॥
कौमारीस्वेष्टरूपेण पूजां कृत्वा विधानतः ।
पठेत्स्तोत्रं महेशानि जीवन्मुक्तः स उच्यते ॥ ३०॥
रजस्वलाभगं दृष्ट्वा पठेदेकाग्रमानसः ।
लभते परमं स्थानं देवीलोके वरानने ॥ ३१॥
महादुःखे महारोगे महासङ्कटके दिने ।
महाभये महाघोरे पठेतस्तोत्रं महोत्तमम् ।
सत्यं सत्यं पुनः सत्यं गोपायेन्मातृजारवत् ॥ ३२॥
॥ इति कालीरहस्ये श्रीकालीहृदयं समाप्तम् ॥