श्री गायत्री पञ्जर स्तोत्रम् | Shri Gayatri Panjar Stotram
Gayatri Panjar Stotram Lyrics in Sanskrit:
गायत्री पञ्जर स्तोत्रम्
॥ श्री गणेशाय नमः ॥
भगवन्तं देवदेवं ब्रह्माणं परमेष्ठिनम् ।
विधातारं विश्वसृजं पद्मयोनिं
प्रजापतिम् ॥ १॥
शुद्धस्फटिकसङ्काशं महेन्द्रशिखरोपमम् ।
बद्धपिङ्गजटाजूटं तडित्कनककुण्डलम्
॥ २॥
शरच्चन्द्राभवदनं स्फुरदिन्दीवरेक्षणम् ।
हिरण्मयं विश्वरूपमुपवीताजिनावृतम्
॥ ३॥
मौक्तिकाभाक्षवलयस्तन्त्रीलयसमन्वितः ।
कर्पूरोद्धूलिततनुः
स्रष्टुर्नयनवर्धनम् ॥ ४॥
विनयेनोपसङ्गम्य शिरसा प्रणिपत्य च ।
नारदः परिपप्रच्छ देवर्षिगणमध्यगः ॥ ५॥
नारद उवाच
भगवन् देवदेवेश सर्वज्ञ करुणानिधे ।
श्रोतुमिच्छामि
प्रश्नेन भोगमोक्षैकसाधनम् ॥ ६॥
ऐश्वर्यस्य समग्रस्य फलदं द्वन्द्ववर्जितम् ।
ब्रह्महत्यादिपापघ्नं
पापाद्यरिभयापहम् ॥ ७॥
यदेकं निष्कलं सूक्ष्मं निरञ्जनमनामयम् ।
यत्ते प्रियतमं लोके तन्मे ब्रूहि
पितर्मम ॥ ८॥
ब्रह्मोवाच
शृणु नारद वक्ष्यमि ब्रह्ममूलं सनातनम् ।
सृष्ट्यादौ
मन्मुखे क्षिप्तं देवदेवेन विष्णुना ॥ ९॥
प्रपञ्चबीजमित्याहुरुत्पत्तिस्थितिहेतुकम् ।
पुरा मया तु कथितं कश्यपाय
सुधीमते ॥ १०॥
सावित्रीपञ्जरं नाम रहस्यं निगमत्रये ।
ऋष्यादिकं च दिग्वर्णं साङ्गावरणकं
क्रमात् ॥ ११॥
वाहनायुधमन्त्रास्त्रं मूर्तिध्यानसमन्वितम् ।
स्तोत्रं शृणु प्रवक्ष्यामि
तव स्नेहाच्च नारद ॥ १२॥
ब्रह्मनिष्ठाय देयं स्याददेयं यस्य कस्यचित् ।
आचम्य नियतः
पश्चादात्मध्यानपुरःसरम् ॥ १३॥
ओमित्यादौ विचिन्त्याथ व्योमहैमाब्जसंस्थितम् ।
धर्मकन्दगतज्ञानमैश्वर्याष्टदलान्वितम्
॥ १४॥
वैराग्यकर्णिकाऽऽसीनां प्रणवग्रहमध्यगाम् ।
ब्रह्मवेदिसमायुक्तां
चैतन्यपुरमध्यगाम् ॥ १५॥
तत्त्वहंससमाकीर्णां शब्दपीठे सुसंस्थिताम् ।
नादबिन्दुकलातीतां
गोपुरैरुपशोभिताम् ॥ १६॥
विद्याविद्यामृतत्वादिप्रकारैरभिसंवृताम् ।
निगमार्गलसञ्च्छन्नां
निर्गुणद्वारवाटिकाम् ॥ १७॥
चतुर्वर्गफलोपेतां महाकल्पवनैवृताम् ।
साद्रानन्दसुधासिन्धुनिगमद्वारवाटिकाम्
॥ १८॥
ध्यानधारणयोगादितृणगुल्मलतावृताम् ।
सदसच्चित्स्वरूपाख्यां
मृगपक्षिसमाकुलाम् ।
विद्याविद्याविचारत्वाल्लोकालोकाचलावृताम् ॥ १९॥
अविकारसमाश्लिष्टनिजध्यानगुणावृताम् ।
पञ्चीकरणपञ्चोत्थभूततत्त्वनिवेदिताम्
॥ २०॥
वेदोपनिषदर्थाख्यदेवर्षिगणसेविताम् ।
इतिहासग्रहगणैः सदारैरभिवन्दिताम् ॥
२१॥
गाथाप्सरोभिर्यक्षैश्च गणकिन्नरसेविताम् ।
नारसिंहपुराणाख्यैः पुरुषैः
कल्पचारणैः ॥ २२॥
कृतगानविनोदादिकथालापनतत्पराम् ।
तदित्यवाङ्मनोगम्यतेजोरूपधरां पराम् ॥ २३॥
जगतः प्रसवित्रीं तां सवितुः सृष्टिकारिणीम् ।
वरेण्यमित्यन्नमयीं
पुरुषार्थफलप्रदाम् ॥ २४॥
अविद्यावर्णवर्ज्यां च तेजोवद्गर्भसंज्ञिकाम् ।
देवस्य
सच्चिदानन्दपरब्रह्मरसात्मिकाम् ॥ २५॥
धीमह्यहं स वै तद्वद्ब्रह्माद्वैतस्वरूपिणीम् ।
धियो यो नस्तु सविता
प्रचोदयादुपासिताम् ॥ २६॥
परोऽसौ सविता साक्षादेनोनिर्हरणाय च ।
परो रजस इत्यादि परं ब्रह्म सनातनम् ॥
२७॥
आपो ज्योतिरिति द्वाभ्यां पाञ्चभौतिकसंज्ञकम् ।
रसोऽमृतं ब्रह्मपदैस्तां
नित्यां तपिनीं पराम् ॥ २८॥
भूर्भुवःसुवरित्येतैर्निगमत्वप्रकाशिकाम् ।
महर्जनस्तपःसत्यलोकोपरिसुसंस्थिताम्
॥ २९॥
तादृगस्या विराड्रूपकिरीटवरराजिताम् ।
व्योमकेशालकाकाशरहस्यं प्रवदाम्यहम् ॥
३०॥
मेघभ्रुकुटिकाक्रान्तविधिविष्णुशिवार्चिताम् ।
गुरुभार्गवकर्णान्तां
सोमसूर्याग्निलोचनाम् ॥ ३१॥
इडापिङ्गलसूक्ष्माभ्यां वायुनासापुटान्विताम् ।
सन्ध्याद्विरोष्ठपुटितां
लसद्वाग्भूपजिह्विकाम् ॥ ३२॥
सन्ध्यासौ द्युमणेः कण्ठलसद्बाहुसमन्विताम् ।
पर्जन्यहृदयासक्तवसुसुस्तनमण्डलाम्
॥ ३३॥
आकाशोदरवित्रस्तनाभ्यवान्तरदेशकाम् ।
प्रजापत्याख्यजघनां कटीन्द्राणीति
संज्ञिकाम् ॥ ३४॥
ऊरू मलयमेरुभ्यां शोभमानासुरद्विषम् ।
जानुनी जह्नुकुशिकवैश्वदेवसदाभुजाम् ॥
३५॥
अयनद्वयजङ्घाद्यखुराद्यपितृसंज्ञिकाम् ।
पदाङ्घ्रिनखरोमाद्यभूतलद्रुमलाञ्छिताम्
॥ ३६॥
ग्रहराश्यृक्षदेवर्षिमूर्तिं च परसंज्ञिकाम् ।
तिथिमासर्तुवर्षाख्यसुकेतुनिमिषात्मिकाम्
॥ ३७॥
अहोरात्रार्धमासाख्यां सूर्याचन्द्रमसात्मिकाम् ।
मायाकल्पितवैचित्र्यसन्ध्याच्छादनसंवृताम्
॥ ३८॥
ज्वलत्कालानलप्रख्यां तडित्कोटिसमप्रभाम् ।
कोटिसूर्यप्रतीकाशां
चन्द्रकोटिसुशीतलाम् ॥ ३९॥
सुधामण्डलमध्यस्थां सान्द्रानन्दामृतात्मिकाम् ।
प्रागतीतां मनोरम्यां वरदां
वेदमातरम् ॥ ४०॥
चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् ।
ध्यात्वा स्वात्मनि भेदेन
ब्रह्मपञ्जरमारभेत् ॥ ४१॥
पञ्जरस्य ऋषिश्चाहं छन्दो विकृतिरुच्यते ।
देवता च परो हंसः
परब्रह्माधिदेवता ॥ ४२॥
प्रणवो बीजशक्तिः स्यादों कीलकमुदाहृतम् ।
तत्तत्त्वं धीमहि क्षेत्रं
धियोऽस्त्रं यः परं पदम् ॥ ४३॥
मन्त्रमापो ज्योतिरिति योनिर्हंसः सबन्धकम् ।
विनियोगस्तु सिद्ध्यर्थं
पुरुषार्थचतुष्टये ॥ ४४॥
ततस्तैरङ्गषट्कं स्यात्तैरेव व्यापकत्रयम् ।
पूर्वोक्तदेवतां ध्यायेत्
साकारगुणसंयुताम् ॥ ४५॥
पञ्चवक्त्रां दशभुजां त्रिपञ्चनयनैर्युताम् ।
मुक्ताविद्रुमसौवर्णां
सितशुभ्रसमाननाम् ॥ ४६॥
वाणीं परां रमां मायां चामरैर्दर्पणैर्युताम् ।
षडङ्गदेवतामन्त्रै
रूपाद्यवयवात्मिकाम् ॥ ४७॥
मृगेन्द्रमृगपक्षीन्द्रमृगहंसासने स्थिताम् ।
अर्धेन्दुबद्धमुकुटकिरीटमणिकुण्डलाम्
॥ ४८॥
रत्नताटङ्कमाङ्गल्यपरग्रैवेयनूपुराम् ।
अङ्गुलीयककेयूरकङ्कणाद्यैरलङ्कृताम्
॥ ४९॥
दिव्यस्रग्वस्त्रसञ्च्छन्नरविमण्डलमध्यगाम् ।
वराभयाब्जयुगलां
शङ्खचक्रगदाङ्कुशान् ॥ ५०॥
शुभ्रं कपालं दधतीं वहन्तीमक्षमालिकाम् ।
गायत्रीं वरदां देवीं सावित्रीं
वेदमातरम् ॥ ५१॥
आदित्यपथगामिन्यां स्मरेद्ब्रह्मस्वरूपिणीम् ।
विचित्रमन्त्रजनर्नीं
स्मरेद्विद्यां सरस्वतीम् ॥ ५२॥
त्रिपदा ऋह्मयी पूर्वामुखी ब्रह्मास्त्रसंज्ञिका ।
चतुर्विंशतितत्त्वाख्या
पातु प्राचीं दिशं मम ॥ ५३॥
चतुष्पादयजुर्ब्रह्मदण्डाख्या पातु दक्षिणाम् ।
षट्त्रिशत्तत्त्वयुक्ता सा
पातु मे दक्षिणां दिशम् ॥ ५४॥
प्रत्यङ्मुखी पञ्चपदी पञ्चाशत्तत्त्वरूपिणी ।
पातु प्रतीचीमनिशं
सामब्रह्मशिरोऽङ्किता ॥ ५५॥
सौम्या ब्रह्मस्वरूपाख्या साथर्वाङ्गिरसात्मिका ।
उदीचीं षट्पदा पातु
चतुःषष्टिकलात्मिका ॥ ५६॥
पञ्चाशत्तत्त्वरचिता भवपादा शताक्षरी ।
व्योमाख्या पातु मे चोर्ध्वां दिशं
वेदाङ्गसंस्थिता ॥ ५७॥
विद्युन्निभा ब्रह्मसंज्ञा मृगारूढा चतुर्भुजा ।
चापेषुचर्मासिधरा पातु मे
पावकीं दिशम् ॥ ५८॥
ब्राह्मी कुमारी गायत्री रक्ताङ्गी हंसवाहिनी ।
बिभ्रत्कमण्डल्वक्षस्रक्स्त्रुवान्मे
पातु नैऋतीम् ॥ ५९॥
चतुर्भुजा वेदमाता शुक्लाङ्गी वृषवाहिनी ।
वराभयकपालाक्षस्रग्विणी पातु
वारुणीम् ॥ ६०॥
श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना ।
शङ्खाराब्जाभयकरा पातु शैवीं दिशं
मम ॥ ६१॥
चतुर्भुजा वेदमाता गौराङ्गी सिंहवाहना ।
वराभयाब्जयुगलैर्भुजैः पात्वधरां
दिशम् ॥ ६२॥
तत्तत्पार्श्वस्थिताः स्वस्ववाहनायुधभूषणाः ।
स्वस्वदिक्षु स्थिताः पान्तु
ग्रहशक्त्यङ्गदेवताः ॥ ६३॥
मन्त्राधिदेवतारूपा मुद्राधिष्ठान देवता ।
व्यापकत्वेन
पात्वस्मानापहृत्तलमस्तकी ॥ ६४॥
तत्पदं मे शिरः पातु भालं मे सवितुःपदम् ।
वरेण्यं मे दृशौ पातु श्रुतीर्भगः
सदा मम ॥ ६५॥
घ्राणं देवस्य मे पातु पातु धीमहि मे मुखम् ।
जिह्वा मम धियः पातु कण्ठं मे
पातु यःपदम् ॥ ६६॥
नःपदं पातु मे स्कन्धौ भुजौ पातु प्रचोदयात् ।
करौ मे च परः पातु पादौ मे
रजसेऽवतु ॥ ६७॥
असौ मे हृदयं पातु मम मध्यं सदावतु ।
ॐ मे नाभिं सदा पातु कटिं मे पातु मे
सदा ।
ओमापः सक्थिनी पातु गुह्यं ज्योतिः सदा मम ॥ ६८॥
ऊरू मम रसः पातु जानुनी अमृतं मम ।
जङ्घे ब्रह्मपदं पातु गुल्फौ भूः पातु मे
सदा ॥ ६९॥
पादौ मम भुवः पातु सुवः पात्वखिलं वपुः ।
रोमाणि मे महः पातु रोमकं पातु मे
जनः ॥ ७०॥
प्राणांश्च धातुतत्त्वानि तदीशः पातु मे तपः ।
सत्यं पातु ममायूंषि हंसो
शुद्धिं च पातु मे ॥ ७१॥
शुचिवत् पातु मे शुक्रं वसुः पातु श्रियं मम ।
मतिं पात्वन्तरिक्षं सद्धोता
दानं च पातु मे ॥ ७२॥
वेदिषत् पातु मे विद्यामतिथिः पातु मे गृहम् ।
धर्मं दुरोणसत् पातु नृषत्
पातु सुतान्मम ॥ ७३॥
वरसत् पातु मे भार्यां मृतसत् पातु मे सुतान् ।
व्योमसत्पातु मे बन्धून्
भ्रातॄनब्जाश्च पातु मे ॥ ७४॥
पशून्मे पातु गोजाश्च ऋतजाः पातु मे भवम् ।
सर्वं मे अद्रिजाः पातु यानं मे
पात्वृतं सदा ॥ ७५॥
अनुक्तमथ यत्स्थानं शरीरेऽन्तर्बहिश्च यत् ।
तत्सर्वं पातु मे नित्यं हंसः
सोऽहमहर्निशम् ॥ ७६॥
माहात्म्य
इदं तु कथितं सम्यङ् मया ते ब्रह्मपञ्जरम् ॥ ७७॥
सन्ध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ।
धारयेद्द्विजवर्यो यः
श्रावयेद्वा समाहितः ॥ ७८॥
स विष्णुः स शिवः सोऽहं सोऽक्षरः स विराट् स्वराट् ।
शताक्षरात्मकं
देव्यानामाष्टाविंशतिः शतम् ॥ ७९ ॥
श्रृणु वक्ष्यामि तत्सर्वमतिगुह्यं सनातनम् ।
भूतिदा भुवना वाणी वसुधा सुमना
मही ॥ ८० ॥
हरिणि जननी नन्दा सविसर्गा तपस्विनी ।
पयस्विनी सती त्यागा वैन्दवी
सत्यवीरसा ॥ ८१ ॥
विश्वा तुर्य परा रेच्या निर्घृणी यमिनी भवा ।
गोवेद्या च जरिष्ठा च
स्कन्दिनी धीर्मतिर्हिमा ॥ ८२ ॥
भीषणा योगिनी यक्षी नदी प्रज्ञा च चोदिनी ।
धनिनी यामिनी पद्मा रोहिणी रमणी
ऋषिः ॥ ८३ ॥
सेनामुखी सामयी च वकुला दोष-वर्जिता ।
सर्व-काम-दुघा
सोमोद्भावाहङ्कार-वर्जिता ॥ ८४ ॥
द्विपदा च चतुष्पदा त्रिपदा चैकषट्पदा ।
अष्टापदी नवपदी सा
सहस्त्राक्षरात्मिका ॥ ८५ ॥
इदं यः परमं गुह्यं सावित्री-मन्त्र-पज्जरम् ।
नामाष्ट-विंशति-शतं
श्रृणुयाच्छावयेत्पठैत् ॥ ८६ ॥
फल-श्रुति
मर्त्यानाममृतत्वाय भीतानाम-भयाय च ।
मोक्षाय च मुमुक्षूणां श्रीकामानां
निये सदा ॥ ८७ ॥
विजयाय युयुत्सूनां व्याधितानामरोगकृत् ।
वश्याय वश्यकामानां
विद्यायैवेदकामिनाम ॥ ८८ ॥
द्रविणाय दरिद्राणां पापिनां पापशान्तये ।
वादिनां वादिविजये कवीनां
कविताप्रदम् ॥ ८९ ॥
अन्नाय क्षुधितानां च स्वर्गायनाममिच्छताम् ।
पशुभ्यः पशुकामानां पुत्रेभ्यः
पुत्रकांक्षिणाम ॥ ९० ॥
क्लेशिनां शोकशान्त्यर्थं नृणां शत्रुभयाय च ।
राजवश्याय दृष्टव्यं पञ्जरं
नृपसेविनाम् ॥ ९१ ॥
भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि ।
नायकं विधिसृष्टानां
शान्तये भवति ध्रुवम् ॥ ९२ ॥
निः स्पृहाणां नृणां मुक्तिः शाश्वती भवति ध्रुवम् ।
जप्यं
त्रिवर्ण-संयुक्तं गृहस्थेन विशेषतः ॥ ९३ ॥
मुनीनां ज्ञानसिद्धयर्थं यतीनां मोक्षसिद्धये ।
उद्यन्तं
चन्द्र-किरणमुपस्थाय कृताञ्जलिः ॥ ९४ ॥
कानने वा स्वभवने तिष्ठञ्छुद्धो जपेदिदम् ।
सर्वान्कामानवाप्नोति तथैव
शिवसन्निधौ ॥ ९५ ॥
मम प्रीतिकरं दिव्यं विष्णु-भक्ति-विवर्द्धनम् ।
ज्वरार्त्तानां कुशाग्रेण
मार्जयेत्कुष्ठरोगिणाम् ॥ ९६ ॥
अमङ्गमङ्गं यथालिङ्गं कवचेन तु साधक: ।
मण्डलेन विशुद्ध्येत् सर्वरोगैनै
संशय ॥ ९७ ॥
मृतप्रजा च या नारी जन्मवन्ध्या तथैव च ।
कन्यादिवन्ध्या या नारी तासामङ्गं
प्रमार्जयेत् ॥ ९८ ॥
पुत्रानरोगिणस्तास्तु लभन्ते दीर्घजीविनः ।
तास्ताः संवत्सरादर्वाग्गर्भन्तु
दधिरे पुनः ॥ ९९ ॥
पतिविद्वेषिणी या स्त्री अङ्गं तस्याः प्रमार्जयेत् ।
तमेव भजते सा स्त्री
पतिं कामवश नयेत् ॥ १०० ॥
अश्वत्थे राजवश्यार्थं बिल्वमूले स्वरूपभाक् ।
पलाशमूले विद्यार्थी
तेजसाभिमुखो रवौ ॥ १०१ ॥
कन्यार्थी चण्डिकागेहे जपेच्छत्रुभयाय च ।
श्रीकामो विष्णुगेहे च उद्याने
श्रीवशी भवेत् ॥ १०२ ॥
आरोग्यार्थे स्वगेहे व मोक्षार्थी शैलमस्तके ।
सर्वकामो विष्णुगेहे
मोक्षार्थी यत्र कुत्रचित् ॥ १०३ ॥
जपारम्भे तु हृदयं जपान्ते कवचं पठेत् ।
किमत्र बहुनोक्तेन श्रृणु नारद
तत्त्वतः ।
यं यं चिन्तयते नित्यं तं तं प्राप्नोति निश्चितम् ॥ १०४ ॥
॥ इति वसिष्ठसंहितायां ब्रह्मनारदसंवादे गायत्रीपञ्जरस्तोत्रं सम्पूर्णम् ॥