श्री गणेश हृदयं स्तोत्रम् | Shri Ganesh Hridayam Stotram
Shri Ganesh Hridayam Stotram Lyrics: भगवान श्री गणेश का यह हृदय स्तोत्र सर्व मनोकामना पूर्ण करने वाला है। इस स्तोत्र के नियमित पाठ से सभी बढ़ाएँ, दरिद्र निवारण, सुख, शांति, समृद्धि के साथ साथ धन व रोजगार प्राप्ति होती है। इसलिए श्री गणेश हृदय स्तोत्र का पाठ और श्रवण अवश्य करें।
श्री गणेश हृदयं स्तोत्रम्
॥ श्रीगणेशाय नमः ॥
॥ श्रीउमामहेश्वराभ्यां नमः ॥
शौनक उवाच
प्रकृतं वद सूत त्वं संवादं शङ्करस्य च ।
सनकादेर्विशेषेण सर्वसिद्धिकरं परम् ॥ १॥
नानावतारसंयुक्तं धूम्रवर्णचरित्रकम् ।
श्रुत्वा सनकमुख्यास्तं किमूचुर्योगसिद्धये ॥ २॥
सूत उवाच
धूम्रवर्णावतारस्य श्रुत्वाऽहं वधसंश्रितम् ।
चरितं हृष्टरोमाणः पप्रच्छुः शङ्करं द्विजाः ॥ ३॥
सनकाद्या ऊचुः
नानावतारसंयुक्तं श्रुत्वामाहात्म्यमुत्तमम् ।
धूम्रवर्णावतारस्य सन्तुष्टाः स्म सदाशिव ॥ ४॥
अधुना शाधि सर्वेश योगप्राप्त्यर्थमुत्तमम् ।
विधिं सुखकरं शीघ्रं सुगमं योगिनायक ॥ ५॥
शिव उवाच
गणेशहृदयं वक्ष्ये सर्वसिद्धिप्रदायकम् ।
साधकाय महाभागाः शीघ्रेण शान्तिदं परम् ॥ ६॥
पुराऽहं गणनाथस्य ध्यानयुक्तोऽभवं द्विजाः ।
तत्र मां सरितां श्रेष्ठा जगाद वाक्यमुत्तमम् ॥ ७॥
गङ्गोवाच
वद शङ्कर कस्य त्वं ध्यानं करोषि नित्यदा ।
इच्छामि तमहं ज्ञातु त्वत्तः किं परमं मतम् ॥ ८॥
शिव उवाच
गणेशं देवदेवेशं ब्रह्मब्रह्मेशमादरात् ।
ध्यायामि सर्वभावज्ञे कुलदेवं सनातनम् ॥ ९॥
तस्य यद् हृदयं देवि गुप्तं सर्वप्रदायकम् ।
कथयिष्यामि सर्वज्ञे येन ज्ञास्यसि तं विभुम् ॥ १०॥
पुराऽज्ञानावृतोऽहं तु तपसि संस्थितोऽभवम् ।
तत्र तपः प्रभावेण हृद्यपश्यं गजाननम् ॥ ११॥
तस्य दर्शनमात्रेण स्फूर्तिः प्राप्ता मया प्रिये ।
तया गणेश्वरं ज्ञात्वा योगिवन्द्योऽभवं मुदा ॥ १२॥
तत्तेऽहं शृणु वक्ष्यामि गणेशहृदयं परम् ।
येन गाणेशयोगे त्वं निपुणा सम्भविष्यसि ॥ १३॥
ॐ अस्य श्रीगणेशहृदयस्तोत्रमन्त्रस्य शम्भुरृषिः, नानाविधानि छन्दांसि, श्री गणेशो देवता, गमिति बीजम् , ज्ञानात्मिका शक्तिः, नादः कीलकम्, श्रीगणपतिप्रीत्यर्थमभीष्टसिद्धयर्थं जपे विनियोगः ।
अथ करन्यासः
ॐ गां अङ्गुष्ठाभ्यां नमः ।
ॐ गीं तर्जनीभ्यां नमः ।
ॐ गूं मध्यमाभ्यां नमः ।
ॐ गैं अनामिकाभ्यां नमः ।
ॐ गौं कनिष्ठिकाभ्यां नमः ।
ॐ गः करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ॥
अथ हृदयाद्यङ्गन्यासः
ॐ गां हृदयाय नमः ।
ॐ गीं शिरसे स्वाहा ।
ॐ गूं शिखायै वषट् ।
ॐ गैं कवचाय हुम् ।
ॐ गौं नेत्रत्रयाय वौषट् ।
ॐ गः अस्त्राय फट् ।
इति हृदयाद्यङ्गन्यासः ॥
अथ ध्यानम्
सिन्दूराभं त्रिनेत्रं पृथुतरजठरं रक्तवस्त्रावृतं तं
पाशं चैवाङ्कुशं वै
रदनमभयदं पाणिभिः सन्दधानम् ।
सिद्ध्या बुद्ध्या प्रश्लिष्टं (प्रशिष्टं) गजवदनमहं चिन्तये ह्येकदन्तं
नानाभूषाभिरामं निजजनसुखदं नाभिशेषं गणेशम् इति ध्यानम् ॥ १४॥
एवं ध्यात्वा मानसोपचारैः पूजयेत् ।
किञ्चिन्मूलमन्त्रं जप्त्वा हृदयं पठेत् ॥
ॐ गणेशमेकदन्तं च चिन्तामणिं विनायकम् ।
दुण्ढिराजं मयूरेशं लम्बोदरं गजाननम् ॥ १५॥
हेरम्बं वक्रतुण्डं च ज्येष्ठराजं निजस्थितम् ।
आशापूरं तु वरदं विकटं धरणीधरम् ॥ १६॥
सिद्धिबुद्धिपतिं वन्दे ब्रह्मणस्पतिसंज्ञितम् ।
माङ्गल्येशं सर्वपूज्यं विघ्नानां नायकं परम् ॥ १७॥
एकविंशति नामानि गणेशस्य महात्मनः ।
अर्थेन संयूतान्येव हृदयं परिकीर्तितम् ॥ १८॥
गङ्गो वाच
एकविंशतिनाम्नां त्वमर्थं ब्रूहि सदाशिव ।
गणेशहृदयं येन जानामि करुणानिधे ॥ १९॥
शिव उवाच
गकाररूपं विविधं चराचरं णकारगं ब्रह्म तथा परात्परम् ।
तयोः स्थितास्तस्य गणाः प्रकीर्तिता गणेशमेकं प्रणमाम्यहं परम् ॥ २०॥
मायास्वरूपं तु सदैकवाचकं दन्तः परो मायिकरूपधारकः ।
योगे तयोरेकरदं सुमानिनि धीस्थं नतोऽहं जनभक्तिलालसम् ॥ २१॥
चित्तप्रकाशं विविधेषु संस्थं लिप्तं न लेपादि विवर्जितं तम् ।
भोगैर्विहीनं त्वथ भोगकारकं चिन्तामणिं तं प्रणमामि नित्यम् ॥ २२॥
विनायकं नायकवर्जितं प्रिये विशेषतो नायकमीश्वरात्मनाम् ।
निरङ्कुशं तं प्रणमामि सर्वदं सदात्मकं भावयुतेन चेतसा ॥ २३॥
वेदाः पुराणानि महेश्वरादिकाः शास्त्राणि योगेश्वरदेवमानवाः ।
नागासुरा ब्रह्मगणाश्च जन्तवो ढुण्ढन्ति वन्दे त्वथ दुण्ढिराजकम् ॥ २४॥
मायार्थवाच्यो हि मयुरभावो नानाभ्रमार्थं प्रकरोति (प्रकरोमि) तेन् ।
तस्मान् मयूरेशमथो वदन्ति नमामि मायापतिमासमन्तात् ॥ २५॥
यस्योदराद्विश्वमिदं प्रसूतं ब्रह्माणि तद्वज्जठरे स्थितानि ।
अनन्तरूपं जठरं हि यस्य लम्बोदरं तं प्रणतोऽस्मि नित्यम् ॥ २६॥
जगद्गलाधो गणनायकस्य गजात्मकं ब्रह्मशिरः परेशम् ।
तयोश्च योगे प्रवदन्ति सर्वे गजाननं तं प्रणमामि नित्यम् ॥ २७॥
दीनार्थवाच्यस्त्वथ हेर्जगच्च ब्रह्मार्थवाच्यो निगमेषु रम्बः ।
तत्पालकत्वाच्च तयोः प्रयोगे हेरम्बमेकं प्रणमामि नित्यम् ॥ २८॥
विश्वात्मकं यस्य शरीरमेकं तस्माच्च वक्त्रं परमात्मरूपम् ।
तुण्डं तदेवं हि तयोः प्रयोगे तं वक्रतुण्डं प्रणमामि नित्यम् ॥ २९॥
मातापिताऽयं जगतां परेषां तस्याऽपि माता जनकादिकं न ।
श्रेष्ठं वदन्ते निगमाः परेश तं ज्येष्ठराजं प्रणमामि नित्यम् ॥ ३०॥
नानाचतुःस्थं विविधात्मकेन संयोगरूपेण निजस्वरूपम् ।
पूर्यस्य सा पूर्णसमाधिरूपा स्वानन्दनाथं प्रणमामि चातः ॥ ३१॥
मनोरथान् पूरयतीह गङ्गे चराचराणां जगतां परेषाम् ।
अतो गणेशं प्रवदन्ति चाशाप्रपूरकं तं प्रणमामि नित्यम् ॥ ३२॥
वरैः समास्थापितमेव सर्वं विश्वं तथा ब्रह्मविहारिणा च ।
अतः परं विप्रमुखा वदन्ति वरप्रदं तं वरदं नतोऽस्मि ॥ ३३॥
मायामयं सर्वमिदं विभाति मिथ्यास्वरूपं भ्रमदायकं च ।
तस्मात्परं ब्रह्म वदन्ति सत्यमेनं परेशं विकटं नमामि ॥ ३४॥
चित्तस्य प्रोक्ता मुनिभिः पृथिव्यो नानाविधा योगिभिरेव गङ्गे ।
तासां सदा धारक एक एव वन्दे च धरणीधरमादिभूतम् ॥ ३५॥
विश्वात्मिका ब्रह्ममयी हि बुद्धिः तस्या विमोहप्रदिका च सिद्धिः ।
ताभ्यां सदा खेलति योगनाथः तं सिद्धिबुद्धीशमथो नमामि ॥ ३६॥
असत्यसत् साम्यतुरीयनैज्यगन्निवृत्ति रूपाणि (ब्रह्माणि) विरच्य खेलकः ।
सदा स्वयं योगमयेन भाति तं नमाम्यतोऽहं त्वथ ब्रह्मणस्पतिम् ॥ ३७॥
अमङ्गलं विश्वमिदं सहात्मभिः अयोगसंयोगयुतं प्रणश्वरम् ।
ततः परं मङ्गलरूपधधारकं नमामि माङ्गल्यपतिं सुशान्तिदम् ॥ ३८॥
सर्वत्रमान्यं सकलावभासकं सुज्ञैः शुभादावशुभादिपूजितम् ।
पूज्यं न तस्मान्निगमादिसम्मतं तं सर्वपूज्यं प्रणतोऽस्मि नित्यम् ॥ ३९॥
भुक्तिं च मुक्तिं प्रददाति तुष्टो भक्तिप्रियो निजविघ्नहा च ।
भक्त्या विहीनाय ददाति विघ्नान् तं विघ्नराजं प्रणमामि नित्यम् ॥ ४०॥
नामार्थयुक्तं कथितं प्रिये ते विघ्नेश्वरस्यैव परं रहस्यम् ।
सप्तत्रिनाम्नां हृदयं नरो यो ज्ञात्वा परं ब्रह्ममयो भवेदिह ॥ ४१॥
गङ्गोवाच
नाम्नां यथृदयं प्रोक्तं त्वया ब्रह्मपदं परम् ।
न तत्रानुभवो मे तु तदर्थं वद शङ्कर ॥ ४२॥
शिव उवाच
मन्त्रं गृह्य गणेशस्य पुरश्चरणमार्गतः ।
भज त्वं तेन तं ज्ञानं भविष्यति न संशयः ॥ ४३॥
हृदयं मन्त्रराजस्य कथयामि समासतः ।
मन्त्र एव गणेशानो न भिन्नस्तत्र वर्तते ॥ ४४॥
गकारो ब्रह्मदेवश्चाऽकारो विष्णुः प्रकीर्तितः ।
बिन्दुः शिवस्तथा भानुः सानुनासिक संज्ञितः ॥ ४५॥
तेषां सन्धिर्महाशक्तिरेभिः स मन्त्र उच्यते ।
देवता गणनाथस्तु तेषां संयोगकारकः ॥ ४६॥
तेभ्यस्तारमयं विश्वं समुत्पन्नं प्रिये पुरा ।
अतस्तारयुतो मन्त्रो गणेशैकाक्षराकृतिः ॥ ४७॥
तारः स षड् विधः प्रोक्तस्तन्निबोध सरिद्वरे ।
अकारोकारकौः प्रोक्तौः मकारो नादबिन्दुके ॥ ४८॥
शून्यं विद्धि महामाये तत्र भेदं वदाम्यहम् ।
शून्यं देहीस्वरूपं तु बिन्दुर्देह इति स्मृतः ॥ ४९॥
ताभ्यां चतुर्विधं विश्वं स्थूलादिभेदधारकम् ।
एतादृशं बिजानीहि मन्त्रराजं गजाननम् ॥ ५०॥
आगमोक्तविधानेन कृत्वा न्यासादिकं पुरा ।
ततो गणेश्वरं पूज्य जपं कुर्याद्विचक्षणः ॥ ५१॥
तद्दशांशेन होमं वै कुर्यादागममार्गतः ।
तद्दशांशमितं प्रोक्तं तर्पणं गणपस्य च ॥ ५२॥
तद्दशांशमितं देवि मार्जनं तद्दशांशतः ।
विप्राणां भोजनं प्रोक्तमेवं पञ्चाङ्गमुच्चते ॥ ५३॥
यथाविधिकृतं चैतत्सद्यो हि फलदं भवेत् ।
अतस्त्वं मन्त्रराजस्य पञ्चकं तत्समाचर ॥ ५४॥
एवमुक्त्वाददे तस्यै मन्त्रं विधिसमन्वितम् ।
गणेशस्य प्रणम्यैव मां ययौ सा तपोऽर्थतः ॥ ५५॥
मयूरेशं समासाद्य चकार तप उत्तमम् ।
गङ्गा तत्रैव विप्रेशा मन्त्रध्यानपरायणा ॥ ५६॥
पुरश्चरणमेकं सा चकार सरितां वरा ।
ततः प्रसन्नता यातो गणेशो भक्तवत्सलः ॥ ५७॥
तस्यैव कृपया तस्या हृदि ज्ञानं बभूव ह ।
तेनैकविंशतेर्नाम्नामर्थज्ञा तत्क्षणादभूत् ॥ ५८॥
ततो हर्षयुता देवी तत्र वासं चकार सा ।
नित्यं भक्तिसमायुक्ताऽभजत्तं गणनायकम् ॥ ५९॥
सनकाद्या ऊचुः
ब्रह्मभूता सरित्श्रेष्ठा मयूरेशं कथं प्रभो ।
अभजत्तस्य मार्गं नो ब्रूहि नाथ नमोऽस्तु ते ॥ ६०॥
शिव उवाच
ब्रह्मभूतो नरो योगी गणेशमभजत्सदा ।
नवधा भक्तिभावेन तत्परश्च महर्षयः ॥ ६१॥
पुत्रः कलत्रं जनकौ सुहृदगणो द्रव्यं सखावृत्तिजविद्यया युतम् ।
स्वर्गस्तु मोक्षो विविधं त्वमेव मे स्वामी गुरुर्विघ्नपतिः परात्परः ॥ ६२॥
सांसर्गिकं कायिकवाचिकं परं कर्माचरन्मानसजं त्रिदेहतः ।
ज्ञानं हृदिस्थं च मया परात्परं विध्नेश्वरायेति समर्पितं किल ॥ ६३॥
योगाकारेण विघ्नेश एकानेकादिसंश्रितः ।
भुङ्क्ते स विविधान्भोगान् शुभाऽशुभसमाश्रितान् ॥ ६४॥
नाहं नरः स्वयं साक्षात् क्रीडति गणनायकः ।
स्वामिसेवकभावेन ब्रह्मणि शोभते रतः ॥ ६५॥
अनेन विधिना विप्रा भजन्ते गणनायकम् ।
योगिनः शुकमुख्याश्च मुद्गलाद्या महर्षयः ॥ ६६॥
एतत्सर्वं समाख्यातं गुह्यं गणपतेर्मया ।
हृदयं तेन विघ्नेशं तोषयध्वं महर्षयः ॥ ६७॥
यथा देहेन्द्रियाद्येषु मुख्यं स्वहृदयं स्मृतम् ।
यत्र जीवस्वरूपेण तिष्ठति गणनायकः ॥ ६८॥
तथा गणपतेरेतद् हृदयं परिकीर्तितम् ।
अत्र योगपतिः साक्षात्तिष्ठति ब्रह्मनायकः ॥ ६९॥
अनेन गणनाथं तु यस्तोष्यति नरोत्तमः ।
स भुक्त्वा सकलान्भोगानन्ते योगमयो भवेत् ॥ ७०॥
एवं मदीयवाक्यं ते श्रुत्वा ब्रह्मसुताः परम् ।
प्रणम्य मां ययुः सर्वे सनकाद्यास्तपोवनम् ॥ ७१॥
एकाक्षरमन्त्रस्य पञ्चकं सेव्य योगिनः ।
गणेशहृदयं ज्ञात्वा गाणपत्या बभूविरे ॥ ७२॥
ततो नित्यं गणेशस्य हृदयं ते महर्षयः ।
जपन्ति भक्तिसंयुक्ता भ्रमन्ति स्वेच्छयेरिताः ॥ ७३॥
अतस्त्वमपि भावेन गणेशहृदयं परम् ।
सेवस्व गाणपत्येषु मुख्यस्तथा भविष्यसि ॥ ७४॥
मुद्गल उवाच
एवमुक्त्वा महानागं शेषाय प्रददौ शिवः ।
मन्त्रमेकाक्षर साङ्गं स ययौ तं प्रणम्य च ॥ ७५॥
साधयित्वा यथान्यायं हृदयज्ञो बभूव ह ।
नित्यं हृदयकेनैव तुष्टाव द्विरदाननम् ॥ ७६॥
गणेशहृदयं पुण्यं शृणुयाच्छ्रावयेन्नरः ।
ईप्सितं प्राप्नुयाच्चान्ते ब्रह्मभूतो भवेदिह ॥ ७७॥
नित्यं पठेन्नरश्चेदं हृदयं गणपस्य यः ।
स गणेशो न सन्देहो दर्शनात्सिद्धिदो भवेत् ॥ ७८॥
पुत्रपौत्रकलत्रादि लभते पाठतो नरः ।
धनं सुविपुलं धान्यमारोग्यमचलां श्रियम् ॥ ७९॥
एकविंशतिवारं यो दिवसानेकविंशतिम् ।
पठेत् गणपतिं चिन्त्यं स लभेदीप्सितं फलम् ॥ ८०॥
असाध्यं साधयेन्मर्त्यौ गणेशहृदयेन यत् ।
राजबद्धं त्रिकालेषु मोचयेत्पाठ तो विधे ॥ ८१॥
मारणोच्चाटनादीनि वश्यमोहादिकानि तु ।
अनेन साधयेन्मर्त्यः परं कृत्यं विनाशयेत् (प्रणाशयेत्)॥ ८२॥
सङ्ग्रामे जयमाप्नोति वीरश्रीसंयुतो भवेत् ।
अस्य पाठेन भो दक्ष न किञ्चिद् दुर्लभं भवेत् ॥ ८३॥
विद्यामायुर्यशः प्रज्ञामङ्ग हीनोङ्गमाप्नुयात् ।
यं यं चिन्तयते मर्त्यस्तं तं प्राप्नोति निश्चितम् ॥ ८४॥
नानेन सदृशं किञ्चिद् शीघ्रसिद्धिकरं भवेत् ।
साक्षाद्गणपतेः प्रोक्तं हृदयं ते मया विधे ॥ ८५॥
गणेशभक्तिहीनाय दुर्विनीताय विद्विषे ।
न देयं गणराजस्य हृदयं वै कदाचन ॥ ८६॥
गणेशभक्तियुक्ताय साधवे च प्रयत्नतः ।
दातव्यं तेन विघ्नेशः सुप्रसन्नो भविष्यति ॥ ८७॥
महासिद्धिप्रदं तुभ्यं कथितं गणपस्य च ।
हृदयं कि पुनः श्रोतुमिच्छसि त्वं प्रजापते ॥ ८८॥
॥ इति श्रीमुद्गलपुराणोक्त गणेशहृदयं स्तोत्रं सम्पूर्णम् ॥