श्री आञ्जनेय सहस्र नाम स्तोत्रम् | Shri Anjaneya Sahasranam Stotram
Shri Anjaneya Sahasranam Stotram |
श्रीआञ्जनेय सहस्र नाम स्तोत्रम्
॥ हनुमत्सहस्रनामस्तोत्रं ॥
ऋषय ऊचुः
ऋषे लोहगिरिं प्राप्तः सीताविरहकातरः।
भगवान् किं
व्यधाद्रामस्तत्सर्वं ब्रूहि सत्वरम् ॥
वाल्मीकिरुवाच
मायामानुष देहोऽयं ददर्शाग्रे कपीश्वरम् ।
हनुमन्तं जगत्स्वामी
बालार्कसम तेजसम् ॥
स सत्वरं समागम्य साष्टाङ्गं प्रणिपत्य च ।
कृताञ्जलिपुटो भूत्वा हनुमान्
राममब्रवीत् ॥
श्री हनुमानुवाच
धन्योऽस्मि कृतकृत्योऽस्मि दृष्ट्वा
त्वत्पादपङ्कजम् ।
योगिनामप्यगम्यं च संसारभय नाशनम् ।
पुरुषोत्तमं च
देवेशं कर्तव्यं तन्निवेद्यताम् ॥
श्री रामचन्द्रोवाच
जनस्थानं कपिश्रेष्ठ कोऽप्यागत्य विदेहजाम्
।
हृतवान् विप्रसंवेशो मारीचानुगते मयि ॥
गवेष्यः साम्प्रतं वीरः जानकी हरणे परः ।
त्वया गम्यो न को देशस्त्वं च
ज्ञानवतावरः ॥
सप्तकोटि महामन्त्रमन्त्रितावयवः प्रभुः ।
ऋषय उचुः
को मन्त्र किञ्च तध्यानं तन्नो बूहि यथार्थता ।
यथार्थतः
कथासुधारसं पीत्वा न तृप्यामः परंतप ॥ १॥
वाल्मीकिरुवाच
मन्त्रं हनुमतो विद्धि भुक्तिमुक्ति प्रदायकम् ।
महारिष्ट
महापाप महादुःख निवारणम् ॥ २॥
मन्त्रम्
ॐ ऐं ह्रीं श्रीं हनुमते रामदूताय लङ्का विध्वंसनाय
अञ्जनीगर्भसम्भूताय शाकिनीढाकिनी विध्वंसनाय किलिकिलि बु बु कारेण विभीषणाय
हनुमद्देवाय
ॐ श्रीं ह्रीं ह्रौं ह्रां ह्रूं फट् स्वाहा ॥
अन्यं हनुमतो मन्त्रं सहस्रं नामसञ्ज्ञितम् ।
जानन्तु ऋषयः सर्वे
महादुरितनाशनम् ॥ ३॥
यस्य संस्मरणात् सीतां लब्ध्वा राज्यमकण्टकम् ।
विभीषणाय च ददावात्मानं
लब्धवान् यथा ॥ ४॥
ऋषय ऊचुः
सहस्रनामसन्मन्त्रं दुःखाघौघनिवारणम् ।
वाल्मीके
ब्रूहि नस्तूर्णं शुश्रूषामः कथां पराम् ॥
वाल्मीकिरुवाच
शृण्वन्तु ऋषयः सर्वे सहस्रनामकं स्तवम् ।
स्तवानामुत्तमं
दिव्यं सदर्थस्य प्रकाशकम् ॥
विनियोगः
ॐ अस्य श्रीहनुमत्सहस्रनामस्तोत्र मन्त्रस्य
श्रीरामचन्द्रऋषिः ।
अनुष्टुप्छन्दः । श्रीहनुमान्महारुद्रो देवता ।
ह्रीं
श्रीं ह्रौं ह्रां बीजं । श्रीं इति शक्तिः ।
किलिकिल बु बु कारेण इति
कीलकम् ।
लङ्काविध्वंसनेति कवचम् । मम सर्वोपद्रवशान्त्यर्थे
मम
सर्वकार्यसिद्ध्यर्थे जपे विनियोगः ॥
ऋष्यादिन्यासः
श्रीरामचन्द्रऋषये नमः शिरसि ।
अनुष्टुप्छन्दसे
नमः मुखे ।
श्रीहनुमान्महारुद्र देवतायै नमः हृदि ।
ह्रीं श्रीं
ह्रौं ह्रां इति बीजाय नमः गुह्ये ।
श्रीं इति शक्तये नमः पादयोः ।
किलिकिल
बु बु कारेण इति कीलकाय नमः नाभौ ।
लङ्काविध्वंसनेति कवचाय नमः बाहुद्वये
।
मम सर्वोपद्रवशान्त्यर्थे मम सर्वकार्यसिद्ध्यर्थे
इति विनियोगाय
नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥
अथ करन्यासः
ॐ ऐं ह्रीं हनुमते रामदूताय अङ्गुष्ठाभ्यां नमः ।
ॐ
लङ्काविध्वंसनाय तर्जनीभ्यां नमः ।
ॐ अञ्जनीगर्भसम्भूताय मध्यमाभ्यां नमः
।
ॐ शाकिनीडाकिनीविध्वंसनाय अनामिकाभ्यां नमः ।
ॐ किलिकिलि बू बू
कारेण विभीषणाय हनुमद्देवताय कनिष्ठिकाभ्यां नमः ।
ॐ ह्रीं श्री ह्रौं हां
हुं फट् स्वाहा करतल करपृष्ठाभ्यां नमः। इति करन्यासः ॥
अथ हृदयादिषडङ्गन्यासः
ॐ ऐं ह्रीं हनुमते रामदूताय हृदयाय नमः ।
ॐ
लङ्काविध्वंसनाय शिरसे स्वाहा ।
ॐ अञ्जनीगर्भसम्भूताय शिखायैवषट् ।
ॐ
शाकिनीडाकिनीविध्वंसनाय कवचाय हुम् ।
ॐ किलिकिलि बू बू कारेण
विभीषणाय हनुमद्देवताय नेत्रत्रयाय वौषट् ।
ॐ ह्रीं श्री ह्रौं हां हुं
फट् स्वाहा अस्त्राय फट् । इति हृदयादिषडङ्गन्यासः ॥
ध्यानम्
प्रतप्तस्वर्णवर्णाभं संरक्तारुणलोचनम् ।
सुग्रीवादियुतं
ध्यायेत् पीताम्बरसमावृतम् ॥
गोष्पदीकृतवाराशिं पुच्छमस्तकमीश्वरम् ।
ज्ञानमुद्रां च बिभ्राणं
सर्वालङ्कारभूषितम् ॥
वामहस्तसमाकृष्टदशास्याननमण्डलम् ।
उद्यद्दक्षिणदोर्दण्डं हनूमन्तं
विचिन्तयेत् ॥
स्तोत्रं
ॐ हनूमान् श्रीप्रदो वायुपुत्रो रुद्रो नयोऽजरः ।
अमृत्युर्वीरवीरश्च
ग्रामवासो जनाश्रयः ॥ १॥
धनदो निर्गुणाकारो वीरो निधिपतिर्मुनिः ।
पिङ्गाक्षो वरदो वाग्मी
सीताशोकविनाशनः ॥ २॥
शिवः शर्वः परोऽव्यक्तो व्यक्ताव्यक्तो धराधरः ।
पिङ्गकेशः पिङ्गरोमा
श्रुतिगम्यः सनातनः ॥ ३॥
अनादिर्भगवान् दिव्यो विश्वहेतुर्नराश्रयः ।
आरोग्यकर्ता विश्वेशो
विश्वनाथो हरीश्वरः ॥ ४॥
भर्गो रामो रामभक्तः कल्याणप्रकृतीश्वरः ।
विश्वम्भरो
विश्वमूर्तिर्विश्वाकारोऽथ विश्वपः ॥ ५॥
विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वधरो रविः ।
विश्वचेष्टो विश्वगम्यो
विश्वध्येयःकलाधरः ॥ ६॥
प्लवङ्गमः कपिश्रेष्ठो ज्येष्ठो वेद्यो वनेचरः ।
बालो वृद्धो युवा तत्त्वं
तत्त्वगम्यः सखा ह्यजः ॥ ७॥
अञ्जनासूनुरव्यग्रो ग्रामस्यान्तो धराधरः ।
भूर्भुवःस्वर्महर्लोको
जनोलोकस्तपोऽव्ययः ॥ ८॥
सत्यमोङ्कारगम्यश्च प्रणवो व्यापकोऽमलः ।
शिवधर्मप्रतिष्ठाता रामेष्टः
फल्गुनप्रियः ॥ ९॥
गोष्पदीकृतवारीशः पूर्णकामो धरापतिः ।
रक्षोघ्नः पुण्डरीकाक्षः
शरणागतवत्सलः ॥ १०॥
जानकीप्राणदाता च रक्षःप्राणापहारकः ।
पूर्णः सत्यः पीतवासा दिवाकरसमप्रभः
॥ ११॥
द्रोणहर्ता शक्तिनेता शक्तिराक्षसमारकः ।
अक्षघ्नो रामदूतश्च
शाकिनीजीविताहरः ॥ १२॥
बुभूकारहतारातिर्गर्वपर्वतमर्दनः ।
हेतुस्त्वहेतुः प्रांशुश्च विश्वकर्ता
जगद्गुरुः ॥ १३॥
जगन्नाथो जगन्नेता जगदीशो जनेश्वरः ।
जगत्श्रितो हरिः श्रीशो
गरुडस्मयभञ्जकः ॥ १४॥
पार्थध्वजो वायुपुत्रः सितपुच्छोऽमितप्रभः ।
ब्रह्मपुच्छः परब्रह्मपुच्छो
रामेष्टकारकः ॥ १५॥
सुग्रीवादियुतो ज्ञानी वानरो वानरेश्वरः ।
कल्पस्थायी चिरञ्जीवी
प्रसन्नश्च सदाशिवः ॥ १६॥
सन्मतिः सद्गतिर्भुक्तिमुक्तिदः कीर्तिदायकः ।
कीर्तिः कीर्तिप्रदश्चैव
समुद्रः श्रीप्रदः शिवः ॥ १७॥
उदधिक्रमणो देवः संसारभयनाशनः ।
वालिबन्धनकृद्विश्वजेता विश्वप्रतिष्ठितः
॥ १८॥
लङ्कारिः कालपुरुषो लङ्केशगृहभञ्जनः ।
भूतावासो वासुदेवो
वसुस्त्रिभुवनेश्वरः ॥१९॥
श्रीरामरूपः कृष्णस्तु लङ्काप्रासादभञ्जनः ।
कृष्णः कृष्णस्तुतः शान्तः
शान्तिदो विश्वभावनः ॥ २०॥
विश्वभोक्ताऽथ मारघ्नो ब्रह्मचारी जितेन्द्रियः ।
ऊर्ध्वगो लाङ्गुली माली
लाङ्गूलाहतराक्षसः ॥ २१॥
समीरतनुजो वीरो वीरमारो जयप्रदः ।
जगन्मङ्गलदः पुण्यः पुण्यश्रवणकीर्तनः ॥
२२॥
पुण्यकीर्तिः पुण्यगीतिर्जगत्पावनपावनः ।
देवेशोऽमितरोमाऽथ रामभक्तविधायकः
॥ २३॥
ध्याता ध्येयो जगत्साक्षी चेता चैतन्यविग्रहः ।
ज्ञानदः प्राणदः प्राणो
जगत्प्राणः समीरणः ॥ २४॥
विभीषणप्रियः शूरः पिप्पलाश्रयसिद्धिदः ।
सिद्धः सिद्धाश्रयः कालः
कालभक्षकपूजितः ॥ २५॥
लङ्केशनिधनस्थायी लङ्कादाहक ईश्वरः ।
चन्द्रसूर्याग्निनेत्रश्च कालाग्निः
प्रलयान्तकः ॥ २६॥
कपिलः कपिशः पुण्यरातिर्द्वादशराशिगः ।
सर्वाश्रयोऽप्रमेयात्मा
रेवत्यादिनिवारकः ॥ २७॥
लक्ष्मणप्राणदाता च सीताजीवनहेतुकः ।
रामध्यायी हृषीकेशो विष्णुभक्तो जटी
बली ॥ २८॥
देवारिदर्पहा होता धाता कर्ता जगत्प्रभुः ।
नगरग्रामपालश्च शुद्धो बुद्धो
निरन्तरः ॥ २९॥
निरञ्जनो निर्विकल्पो गुणातीतो भयङ्करः ।
हनुमांश्च दुराराध्यस्तपःसाध्यो
महेश्वरः ॥ ३०॥
जानकीघनशोकोत्थतापहर्ता पराशरः ।
वाङ्मयः सदसद्रूपः कारणं प्रकृतेः परः ॥
३१॥
भाग्यदो निर्मलो नेता पुच्छलङ्काविदाहकः ।
पुच्छबद्धो यातुधानो
यातुधानरिपुप्रियः ॥ ३२॥
छायापहारी भूतेशो लोकेशः सद्गतिप्रदः ।
प्लवङ्गमेश्वरः क्रोधः
क्रोधसंरक्तलोचनः ॥ ३३॥
क्रोधहर्ता तापहर्ता भक्ताभयवरप्रदः ।
भक्तानुकम्पी विश्वेशः पुरुहूतः
पुरन्दरः ॥ ३४॥
अग्निर्विभावसुर्भास्वान् यमो निरृतिरेव च ।
वरुणो वायुगतिमान् वायुः
कुबेर ईश्वरः ॥ ३५॥
रविश्चन्द्रः कुजः सौम्यो गुरुः काव्यः शनैश्चरः ।
राहुः केतुर्मरुद्दाता
धाता हर्ता समीरजः ॥ ३६॥
मशकीकृतदेवारिर्दैत्यारिर्मधूसूदनः ।
कामः कपिः कामपालः कपिलो विश्वजीवनः
॥ ३७॥
भागीरथीपदाम्भोजः सेतुबन्धविशारदः ।
स्वाहा स्वधा हविः कव्यं हव्यवाहः
प्रकाशकः ॥ ३८॥
स्वप्रकाशो महावीरो मधुरोऽमितविक्रमः ।
उड्डीनोड्डीनगतिमान् सद्गतिः
पुरुषोत्तमः ॥३९॥
जगदात्मा जगद्योनिर्जगदन्तो ह्यनन्तरः ।
विपाप्मा निष्कलङ्कोऽथ महान्
महदहङ्कृतिः ॥ ४०॥
खं वायुः पृथिवी चापो वह्निर्दिक् काल एकलः ।
क्षेत्रज्ञः क्षेत्रपालश्च
पल्वलीकृतसागरः ॥ ४१॥
हिरण्मयः पुराणश्च खेचरो भूचरो मनुः ।
हिरण्यगर्भः सूत्रात्मा राजराजो
विशां पतिः ॥ ४२॥
वेदान्तवेद्य उद्गीथो वेदाङ्गो वेदपारगः ।
प्रतिग्रामस्थितः सद्यः
स्फूर्तिदाता गुणाकरः ॥ ४३॥
नक्षत्रमाली भूतात्मा सुरभिः कल्पपादपः ।
चिन्तामणिर्गुणनिधिः
प्रजाद्वारमनुत्तमः ॥ ४४॥
पुण्यश्लोकः पुरारातिः मतिमान् शर्वरीपतिः ।
किल्किलारावसन्त्रस्तभूतप्रेतपिशाचकः
॥ ४५॥
ऋणत्रयहरः सूक्ष्मः स्थूलः सर्वगतिः पुमान् ।
अपस्मारहरः स्मर्ता
श्रुतिर्गाथा स्मृतिर्मनुः ॥ ४६॥
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं यतीश्वरः ।
नादरूपं परं ब्रह्म
ब्रह्म ब्रह्मपुरातनः ॥ ४७॥
एकोऽनेको जनः शुक्लः स्वयञ्ज्योतिरनाकुलः ।
ज्योतिर्ज्योतिरनादिश्च
सात्विको राजसस्तमः ॥ ४८॥
तमोहर्ता निरालम्बो निराकारो गुणाकरः ।
गुणाश्रयो गुणमयो बृहत्कायो
बृहद्यशाः ॥४९॥
बृहद्धनुर्बृहत्पादो बृहन्मूर्धा बृहत्स्वनः ।
बृहत्कर्णो बृहन्नासो
बृहद्बाहुर्बृहत्तनुः ॥ ५०॥
बृहद्गलो बृहत्कायो बृहत्पुच्छो बृहत्करः ।
बृहद्गतिर्बृहत्सेवो
बृहल्लोकफलप्रदः ॥ ५१॥
बृहद्भक्तिर्बृहद्वाञ्छाफलदो बृहदीश्वरः ।
बृहल्लोकनुतो द्रष्टा
विद्यादाता जगद्गुरुः ॥ ५२॥
देवाचार्यः सत्यवादी ब्रह्मवादी कलाधरः ।
सप्तपातालगामी च मलयाचलसंश्रयः ॥
५३॥
उत्तराशास्थितः श्रीशो दिव्यौषधिवशः खगः ।
शाखामृगः कपीन्द्रोऽथ पुराणः
प्राणचञ्चुरः ॥ ५४॥
चतुरो ब्राह्मणो योगी योगिगम्यः परोऽवरः ।
अनादिनिधनो व्यासो वैकुण्ठः
पृथिवीपतिः ॥ ५५॥
अपराजितो जितारातिः सदानन्दद ईशिता ।
गोपालो गोपतिर्योद्धा कलिः स्फालः
परात्परः ॥ ५६॥
मनोवेगी सदायोगी संसारभयनाशनः ।
तत्त्वदाताऽथ तत्त्वज्ञस्तत्त्वं
तत्त्वप्रकाशकः ॥ ५७॥
शुद्धो बुद्धो नित्ययुक्तो भक्ताकारो जगद्रथः ।
प्रलयोऽमितमायश्च मायातीतो
विमत्सरः ॥ ५८॥
मायानिर्जितरक्षाश्च मायानिर्मितविष्टपः ।
मायाश्रयश्च निलेर्पो
मायानिर्वर्तकः सुखी ॥५९॥
सुखी(खं) सुखप्रदो नागो महेशकृतसंस्तवः ।
महेश्वरः सत्यसन्धः शरभः
कलिपावनः ॥ ६०॥
रसो रसज्ञः सन्मानो रूपं चक्षुः श्रुती रवः ।
घ्राणं गन्धः स्पर्शनं च
स्पर्शो हिङ्कारमानगः ॥ ६१॥
नेति नेतीति गम्यश्च वैकुण्ठभजनप्रियः ।
गिरिशो गिरिजाकान्तो दुर्वासाः
कविरङ्गिराः ॥ ६२॥
भृगुर्वसिष्ठश्च्यवनो नारदस्तुम्बुरुर्हरः ।
विश्वक्षेत्रं विश्वबीजं
विश्वनेत्रं च विश्वपः ॥ ६३॥
याजको यजमानश्च पावकः पितरस्तथा ।
श्रद्धा बुद्धिः क्षमा तन्द्रा मन्त्रो
मन्त्रयिता सुरः ॥ ६४॥
राजेन्द्रो भूपती रूढो माली संसारसारथिः ।
नित्यः सम्पूर्णकामश्च
भक्तकामधुगुत्तमः ॥ ६५॥
गणपः केशवो भ्राता पिता माताऽथ मारुतिः ।
सहस्रमूर्धा सहस्रास्यः
सहस्राक्षः सहस्रपात् ॥ ६६॥
कामजित् कामदहनः कामः काम्यफलप्रदः ।
मुद्रोपहारी रक्षोघ्नः क्षितिभारहरो
बलः ॥ ६७॥
नखदंष्ट्रायुधो विष्णुभक्तो भक्ताभयप्रदः ।
दर्पहा दर्पदो
दंष्ट्राशतमूर्तिरमूर्तिमान् ॥ ६८॥
महानिधिर्महाभागो महाभर्गो महर्द्धिदः ।
महाकारो महायोगी महातेजा
महाद्युतिः ॥६९॥
महाकर्मा महानादो महामन्त्रो महामतिः ।
महाशमो महोदारो महादेवात्मको विभुः
॥ ७०॥
रुद्रकर्मा क्रूरकर्मा रत्ननाभः कृतागमः ।
अम्भोधिलङ्घनः सिद्धः सत्यधर्मा
प्रमोदनः ॥ ७१॥
जितामित्रो जयः सोमो विजयो वायुवाहनः ।
जीवो धाता सहस्रांशुर्मुकुन्दो
भूरिदक्षिणः ॥ ७२॥
सिद्धार्थः सिद्धिदः सिद्धः सङ्कल्पः सिद्धिहेतुकः ।
सप्तपातालचरणः
सप्तर्षिगणवन्दितः ॥ ७३॥
सप्ताब्धिलङ्घनो वीरः सप्तद्वीपोरुमण्डलः ।
सप्ताङ्गराज्यसुखदः
सप्तमातृनिषेवितः ॥ ७४॥
सप्तलोकैकमकुटः सप्तहोत्रः स्वराश्रयः ।
सप्तसामोपगीतश्च सप्तपातालसंश्रयः
॥ ७५॥
सप्तच्छन्दोनिधिः सप्तच्छन्दः सप्तजनाश्रयः ।
मेधादः कीर्तिदः शोकहारी
दौर्भाग्यनाशनः ॥ ७६॥
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ।
प्रतिवादिमुखस्तम्भो
रुष्टचित्तप्रसादनः ॥ ७७॥
पराभिचारशमनो दुःखहा बन्धमोक्षदः ।
नवद्वारपुराधारो नवद्वारनिकेतनः ॥ ७८॥
नरनारायणस्तुत्यो नवनाथमहेश्वरः ।
मेखली कवची खड्गी
भ्राजिष्णुर्जिष्णुसारथिः ॥७९॥
बहुयोजनविस्तीर्णपुच्छः पुच्छहतासुरः ।
दुष्टहन्ता नियमिता पिशाचग्रहशातनः
॥ ८०॥
बालग्रहविनाशी च धर्मनेता कृपाकरः ।
उग्रकृत्यश्चोग्रवेग उग्रनेत्रः
शतक्रतुः ॥ ८१॥
शतमन्युस्तुतः स्तुत्यः स्तुतिः स्तोता महाबलः ।
समग्रगुणशाली च व्यग्रो
रक्षोविनाशनः ॥ ८२॥
रक्षोऽग्निदावो ब्रह्मेशः श्रीधरो भक्तवत्सलः ।
मेघनादो मेघरूपो
मेघवृष्टिनिवारणः ॥ ८३॥
मेघजीवनहेतुश्च मेघश्यामः परात्मकः ।
समीरतनयो धाता तत्त्वविद्याविशारदः ॥
८४॥
अमोघोऽमोघवृष्टिश्चाभीष्टदोऽनिष्टनाशनः ।
अर्थोऽनर्थापहारी च समर्थो
रामसेवकः ॥ ८५॥
अर्थी धन्योऽसुरारातिः पुण्डरीकाक्ष आत्मभूः ।
सङ्कर्षणो विशुद्धात्मा
विद्याराशिः सुरेश्वरः ॥ ८६॥
अचलोद्धारको नित्यः सेतुकृद्रामसारथिः ।
आनन्दः परमानन्दो मत्स्यः कूर्मो
निधिः शयः ॥ ८७॥
वराहो नारसिंहश्च वामनो जमदग्निजः ।
रामः कृष्णः शिवो बुद्धः कल्की
रामाश्रयो हरिः ॥ ८८॥
नन्दी भृङ्गी च चण्डी च गणेशो गणसेवितः ।
कर्माध्यक्षः सुरारामो विश्रामो
जगतीपतिः ॥८९॥
जगन्नाथः कपीशश्च सर्वावासः सदाश्रयः ।
सुग्रीवादिस्तुतो दान्तः सर्वकर्मा
प्लवङ्गमः ॥ ९०॥
नखदारितरक्षश्च नखयुद्धविशारदः ।
कुशलः सुधनः शेषो वासुकिस्तक्षकस्तथा ॥
९१॥
स्वर्णवर्णो बलाढ्यश्च पुरुजेताऽघनाशनः ।
कैवल्यदीपः कैवल्यो गरुडः पन्नगो
गुरुः ॥ ९२॥
क्लीक्लीरावहतारातिगर्वः पर्वतभेदनः ।
वज्राङ्गो वज्रवक्त्रश्च
भक्तवज्रनिवारकः ॥ ९३॥
नखायुधो मणिग्रीवो ज्वालामाली च भास्करः ।
प्रौढप्रतापस्तपनो
भक्ततापनिवारकः ॥ ९४॥
शरणं जीवनं भोक्ता नानाचेष्टोऽथ चञ्चलः ।
स्वस्थस्त्वस्वास्थ्यहा
दुःखशातनः पवनात्मजः ॥ ९५॥
पवनः पावनः कान्तो भक्ताङ्गः सहनो बलः ।
मेघनादरिपुर्मेघनादसंहृतराक्षसः ॥
९६॥
क्षरोऽक्षरो विनीतात्मा वानरेशः सताङ्गतिः ।
श्रीकण्ठः शितिकण्ठश्च सहायः
सहनायकः ॥ ९७॥
अस्थूलस्त्वनणुर्भर्गो देवसंसृतिनाशनः ।
अध्यात्मविद्यासारश्चाप्यध्यात्मकुशलः
सुधीः ॥ ९८॥
अकल्मषः सत्यहेतुः सत्यदः सत्यगोचरः ।
सत्यगर्भः सत्यरूपः सत्यः
सत्यपराक्रमः ॥ ९९॥
अञ्जनाप्राणलिङ्गं च वायुवंशोद्भवः श्रुतिः ।
भद्ररूपो रुद्ररूपः
सुरूपश्चित्ररूपधृक् ॥ १००॥
मैनाकवन्दितः सूक्ष्मदर्शनो विजयो जयः ।
क्रान्तदिङ्मण्डलो रुद्रः
प्रकटीकृतविक्रमः ॥ १०१॥
कम्बुकण्ठः प्रसन्नात्मा ह्रस्वनासो वृकोदरः ।
लम्बोष्ठः कुण्डली
चित्रमाली योगविदां वरः ॥ १०२॥
विपश्चित् कविरानन्दविग्रहोऽनल्पनाशनः ।
फाल्गुनीसूनुरव्यग्रो योगात्मा
योगतत्परः ॥ १०३॥
योगविद्योगकर्ता च योगयोनिर्दिगम्बरः ।
अकारादिक्षकारान्तवर्णनिर्मितविग्रहः
॥ १०४॥
उलूखलमुखः सिद्धसंस्तुतः परमेश्वरः ।
श्लिष्टजङ्घः श्लिष्टजानुः
श्लिष्टपाणिः शिखाधरः ॥ १०५॥
सुशर्माऽमितधर्मा च नारायणपरायणः ।
जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः
स्थाणुरेव च ॥ १०६॥
हरी रुद्रानुकृद्वृक्षकम्पनो भूमिकम्पनः ।
गुणप्रवाहः सूत्रात्मा वीतरागः
स्तुतिप्रियः ॥ १०७॥
नागकन्याभयध्वंसी कृतपूर्णः कपालभृत् ।
अनुकूलोऽक्षयोऽपायोऽनपायो वेदपारगः
॥ १०८॥
अक्षरः पुरुषो लोकनाथस्त्र्यक्षः प्रभुर्दृढः ।
अष्टाङ्गयोगफलभूः
सत्यसन्धः पुरुष्टुतः ॥ १०९॥
श्मशानस्थाननिलयः प्रेतविद्रावणक्षमः ।
पञ्चाक्षरपरः पञ्चमातृको रञ्जनो
ध्वजः ॥ ११०॥
योगिनीवृन्दवन्द्यश्रीः शत्रुघ्नोऽनन्तविक्रमः ।
ब्रह्मचारीन्द्रियवपुर्धृतदण्डो
दशात्मकः ॥ १११॥
अप्रपञ्चः सदाचारः शूरसेनो विदारकः ।
बुद्धः प्रमोद आनन्दः
सप्तजिह्वपतिर्धरः ॥ ११२॥
नवद्वारपुराधारः प्रत्यग्रः सामगायनः ।
षट्चक्रधामा स्वर्लोकभयहृन्मानदो
मदः ॥ ११३॥
सर्ववश्यकरः शक्तिरनन्तोऽनन्तमङ्गलः ।
अष्टमूर्तिधरो नेता विरूपः
स्वरसुन्दरः ॥ ११४॥
धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः ।
नन्दीप्रियः स्वतन्त्रश्च मेखली
डमरुप्रियः ॥ ११५॥
लोहिताङ्गः समिद्वह्निः षडृतुः शर्व ईश्वरः ।
फलभुक् फलहस्तश्च
सर्वकर्मफलप्रदः ॥ ११६॥
धर्माध्यक्षो धर्मफलो धर्मो धर्मप्रदोऽर्थदः ।
पञ्चविंशतितत्त्वज्ञस्तारको
ब्रह्मतत्परः ॥ ११७॥
त्रिमार्गवसतिर्भीमः सर्वदुष्टनिबर्हणः ।
ऊर्जःस्वामी जलस्वामी शूली माली
निशाकरः ॥ ११८॥
रक्ताम्बरधरो रक्तो रक्तमाल्यविभूषणः ।
वनमाली शुभाङ्गश्च श्वेतः
श्वेताम्बरो युवा ॥ ११९॥
जयोऽजेयपरीवारः सहस्रवदनः कविः ।
शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जनः ॥
१२०॥
सद्योजातः कामगतिर्ज्ञानमूर्तिर्यशस्करः ।
शम्भुतेजाः सार्वभौमो
विष्णुभक्तः प्लवङ्गमः ॥ १२१॥
चतुर्णवतिमन्त्रज्ञः पौलस्त्यबलदर्पहा ।
सर्वलक्ष्मीप्रदः
श्रीमानङ्गदप्रियवर्धनः ॥ १२२॥
स्मृतिबीजं सुरेशानः संसारभयनाशनः ।
उत्तमः श्रीपरीवारः श्रीभूरुग्रश्च
कामधुक् ॥ १२३॥
सदागतिर्मातरिश्वा रामपादाब्जषट्पदः ।
नीलप्रियो नीलवर्णो नीलवर्णप्रियः
सुहृत् ॥ १२४॥
रामदूतो लोकबन्धुरन्तरात्मा मनोरमः ।
श्रीरामध्यानकृद्वीरः सदा
किम्पुरुषस्तुतः ॥ १२५॥
रामकार्यान्तरङ्गश्च शुद्धिर्गतिरनामयः ।
पुण्यश्लोकः परानन्दः
परेशप्रियसारथिः ॥ १२६॥
लोकस्वामी मुक्तिदाता सर्वकारणकारणः ।
महाबलो महावीरः पारावारगतिर्गुरुः ॥
१२७॥
तारको भगवांस्त्राता स्वस्तिदाता सुमङ्गलः ।
समस्तलोकसाक्षी च
समस्तसुरवन्दितः ।
सीतासमेतश्रीरामपादसेवाधुरन्धरः ॥ १२८॥
वाल्मीकिरुवाच
इति नाम्न सहस्रेण स्तुतो रामेण वायुभूः ।
उवाच
तं प्रसन्नात्मा संघायात्मानमव्ययम् ॥ १२९॥
श्री हनुमानुवाच
ध्यानास्पदमिदं ब्रह्म मत्पुरः समुपस्थितम् ।
स्वामिन्
कृपानिधे राम ज्ञातोऽसि कपिना मया ॥ १३०॥
त्वध्यान निरता लोकाः किं मां जपसि सादरम् ।
तवागमनहेतुश्च ज्ञातो ह्यत्र
मयाऽनघ ॥ १३१॥
कर्तव्यं मम किं राम तथा ब्रूहि च राघव ।
इति प्रचोदितो रामः
प्रहृष्टात्मेदमब्रवीत् ॥ १३२॥
श्री रामचन्द्रोवाच
दुर्जयः खलु वैदेहीं गृहीत्वा कोऽपि निर्गतः
।
हत्वा तं निर्घृणं वीरमानय त्वं कपीश्वर ॥ १३३॥
मम दास्यं कुरु सखे भव विश्वसुखंकरः ।
तथा कृते त्वया वीर मम कार्यं
भविष्यति ॥ १३४॥
ओमीत्याज्ञां तु शिरसा गृहीत्वा स कपीश्वरः।
विधेयं विधिवत्तत्र चकार
शिरसा स्वयम्॥ १३५॥
इदं नामसहस्रं तु योऽधीते प्रत्यहं नरः ।
दुःखौघो नश्यते क्षिप्रं
सम्पत्तिर्वर्धते चिरम् ।
वश्यं चतुर्विधं तस्य भवत्येव न संशयः ॥ १३६॥
राजानो राजपुत्राश्च राजकीयाश्च मन्त्रिणः ।
त्रिकालं पठनादस्य दृश्यन्ते
च त्रिपक्षतः ॥ १३७॥
अश्वत्थमूले जपतां नास्ति वैरिकृतं भयम् ।
त्रिकालपठनादस्य सिद्धिः स्यात्
करसंस्थिता ॥ १३८॥
ब्राह्मे मुहूर्ते चोत्थाय प्रत्यहं यः पठेन्नरः ।
ऐहिकामुष्मिकान् सोऽपि
लभते नात्र संशयः ॥ १३९॥
सङ्ग्रामे सन्निविष्टानां वैरिविद्रावणं भवेत् ।
ज्वरापस्मारशमनं
गुल्मादिव्याधिवारणम् ॥ १४०॥
साम्राज्यसुखसम्पत्तिदायकं जपतां नृणाम् ।
य इदं पठते नित्यं पाठयेद्वा
समाहितः ।
सर्वान् कामानवाप्नोति वायुपुत्रप्रसादतः ॥ १४१॥
॥ श्री आञ्जनेयसहस्रनामस्तोत्रं हनुमत्सहस्रनामस्तोत्रं च सम्पूर्णम् ॥